हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Sita Kavacham – श्री सीता कवचम्
अगस्तिरुवाच ।
या सीताऽवनिसम्भवाऽथ मिथिलापालेन संवर्धिता
पद्माक्षावनिभुक्सुताऽनलगता या मातुलुङ्गोद्भवा ।
या रत्ने लयमागता जलनिधौ या वेदपारं गता
लङ्कां सा मृगलोचना शशिमुखी मां पातु रामप्रिया ॥ १ ॥
अस्य श्रीसीताकवचमन्त्रस्य अगस्तिरृषिः श्रीसीता देवता अनुष्टुप् छन्दः रमेति बीजं जनकजेति शक्तिः अवनिजेति कीलकं पद्माक्षसुतेत्यस्त्रं मातुलुङ्गीति कवचं मूलकासुरघातिनीति मन्त्रः श्रीसीतारामचन्द्रप्रीत्यर्थं सकलकामना सिद्ध्यर्थं च जपे विनियोगः ।
अथ करन्यासः ।
ओं ह्रां सीतायै अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं रमायै तर्जनीभ्यां नमः ।
ओं ह्रूं जनकजायै मध्यमाभ्यां नमः ।
ओं ह्रैं अवनिजायै अनामिकाभ्यां नमः ।
ओं ह्रौं पद्माक्षसुतायै कनिष्ठिकाभ्यां नमः ।
ओं ह्रः मातुलुङ्ग्यै करतलकरपृष्ठाभ्यां नमः ।
अथ अङ्गन्यासः ।
ओं ह्रां सीतायै हृदयाय नमः ।
ओं ह्रीं रमायै शिरसे स्वाहा ।
ओं ह्रूं जनकजायै शिखायै वषट् ।
ओं ह्रैं अवनिजायै कवचाय हुम् ।
ओं ह्रौं पद्माक्षसुतायै नेत्रत्रयाय वौषट् ।
ओं ह्रः मातुलुङ्ग्यै अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
अथ ध्यानम् ।
सीतां कमलपत्राक्षीं विद्युत्पुञ्जसमप्रभाम् ।
द्विभुजां सुकुमाराङ्गीं पीतकौशेयवासिनीम् ॥ १ ॥
सिंहासने रामचन्द्रवामभागस्थितां वराम् ।
नानालङ्कारसम्युक्तां कुण्डलद्वयधारिणीम् ॥ २ ॥
चूडाकङ्कणकेयूररशनानूपुरान्विताम् ।
सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च ॥ ३ ॥
नूपुराभरणेनापि घ्राणेऽतिशोभितां शुभाम् ।
हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च ॥ ४ ॥
बिभ्रतीं सुरभिद्रव्यं सुगन्धस्नेहमुत्तमम् ।
स्मिताननां गौरवर्णां मन्दारकुसुमं करे ॥ ५ ॥
बिभ्रतीमपरे हस्ते मातुलुङ्गमनुत्तमम् ।
रम्यहासां च बिम्बोष्ठीं चन्द्रवाहनलोचनाम् ॥ ६ ॥
कलानाथसमानास्यां कलकण्ठमनोरमाम् ।
मातुलुङ्गोद्भवां देवीं पद्माक्षदुहितां शुभाम् ॥ ७ ॥
मैथिलीं रामदयितां दासीभिः परिवीजिताम् ।
एवं ध्यात्वा जनकजां हेमकुम्भपयोधराम् ॥ ८ ॥
अथ कवचम् ।
श्रीसीता पूर्वतः पातु दक्षिणेऽवतु जानकी ।
प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली ॥ ९ ॥
अधः पातु मातुलुङ्गी ऊर्ध्वं पद्माक्षजाऽवतु ।
मध्येऽवनिसुता पातु सर्वतः पातु मां रमा ॥ १० ॥
स्मितानना शिरः पातु पातु भालं नृपात्मजा ।
पद्माऽवतु भ्रुवोर्मध्ये मृगाक्षी नयनेऽवतु ॥ ११ ॥
कपोले कर्णमूले च पातु श्रीरामवल्लभा ।
नासाग्रं सात्त्विकी पातु पातु वक्त्रं तु राजसी ॥ १२ ॥
तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता ।
दन्तान् पातु महामाया चिबुकं कनकप्रभा ॥ १३ ॥
पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता ।
भुजौ पातु वरारोहा करौ कङ्कणमण्डिता ॥ १४ ॥
नखान् रक्तनखा पातु कुक्षौ पातु लघूदरा ।
वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी ॥ १५ ॥
पृष्ठदेशे वह्निगुप्ताऽवतु मां सर्वदैव हि ।
दिव्यप्रदा पातु नाभिं कटिं राक्षसमोहिनी ॥ १६ ॥
गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया ।
ऊरू रक्षतु रम्भोरूर्जानुनी प्रियभाषिणी ॥ १७ ॥
जङ्घे पातु सदा सुभ्रूर्गुल्फौ चामरवीजिता ।
पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका ॥ १८ ॥
पादाङ्गुलीः सदा पातु मम नूपुरनिःस्वना ।
रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी ॥ १९ ॥
रात्रौ पातु कालरूपा दिने दानैकतत्परा ।
सर्वकालेषु मां पातु मूलकासुरघातिनी ॥ २० ॥
एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्पुनः ॥ २१ ॥
जानकीं पूजयित्वा स सर्वान्कामानवाप्नुयात् ।
धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात् ॥ २२ ॥
स्त्रीकामार्थी शुभां नारीं सुखार्थी सौख्यमाप्नुयात् ।
अष्टवारं जपनीयं सीतायाः कवचं सदा ॥ २३ ॥
अष्टभूसुरसीतायै नरैः प्रीत्यार्पयेत्सदा ।
फलपुष्पादिकादीनि यानि तानि पृथक् पृथक् ॥ २४ ॥
सीतायाः कवचं चेदं पुण्यं पातकनाशनम् ।
ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि ॥ २५ ॥
पठन्ति रामकवचं सीतायाः कवचं विना ।
तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम् ॥ २६ ॥
[*अधिकश्लोकाः –
तस्मात् सदा नरैर्जाप्यं कवचानां चतुष्टयम् ।
आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम् ॥
ततः पठेच्च सीतायाः श्रीरामस्य ततः परम् ।
एवं सदा जपनीयं कवचानां चतुष्टयम् ॥
*]
इति श्रीमदानन्दरामायणे मनोहरकाण्डे सुतीक्ष्णागस्त्यसंवादे श्रीसीतायाः कवचम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.